|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.24. अध्यायः 024
Mahabharata - Sabha Parva - Chapter Topics
भीमजरासन्धयोः स्वस्त्ययनपूर्वकं युद्धारम्भः॥ 1॥ श्रीकृष्णप्रोत्साहितस्य भीमस्य जरासन्धवधोद्यमः॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः।
उवाच वाग्मी राजानं जरासन्धमधोक्षजः॥ 2-24-1(12278)
त्रयाणां केन ते राजन्योद्धुमुत्सहते मनः।
अस्मदन्यतमेनेह सज्जीभवतु को युधि॥ 2-24-2(12279)
एवमुक्तः स नृपतिर्युद्धं वव्रे महाद्युतिः।
जरासन्धस्ततो राजा भीमसेनेन मागधः॥ 2-24-3(12280)
`धारयन्तं गदां दिव्यां बलं श्रुत्वा च निर्वृतः।
अर्जुन वासुदेवं च वजर्यित्वा स मागधः॥ 2-24-4(12281)
मत्वा देवं गोप इति बालोऽर्जुन इति स्म ह'।
आदाय रोजनां माल्यं मङ्गल्यान्यपराणि च॥ 2-24-5(12282)
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च।
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः॥ 2-24-6(12283)
कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना।
समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन्॥ 2-24-7(12284)
अवमुच्य किरीटं स केशान्समनुमृज्य च।
उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः॥ 2-24-8(12285)
उवाच मतिमान्राजा भीमं भीमपराक्रमः।
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम्॥ 2-24-9(12286)
एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः।
प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः॥ 2-24-10(12287)
ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली।
भीमसेनो जरासन्धमाससाद युयुत्सया॥ 2-24-11(12288)
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ॥ 2-24-12(12289)
करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम्।
कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः॥ 2-24-13(12290)
स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः।
अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं च चक्रतुः। 2-24-14(12291)
चित्रहस्तादिकं कृत्वा सस्फुलिङ्गेन चाशनिम्॥
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम्॥ 2-24-15(12292)
बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ।
उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ॥ 2-24-16(12293)
करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव।
नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ॥ 2-24-17(12294)
तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ।
सिंहाविव सुसंङ्क्रुद्धावाकृष्याकृष्य युध्यताम्॥ 2-24-18(12295)
अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि।
आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः॥ 2-24-19(12296)
उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ।
अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत्॥ 2-24-20(12297)
सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः।
सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः॥ 2-24-21(12298)
तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम्।
एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम्॥ 2-24-22(12299)
तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनाः।
ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः॥ 2-24-23(12300)
शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः।
निरन्तरमभूत्तत्र जनौघैरभिसंवृतम्॥ 2-24-24(12301)
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा।
आसीत्सुभीमसम्पातो वज्रपर्वतयोरिव॥ 2-24-25(12302)
उभौ परमसंहृष्टौ बलेन बलिनां वरौ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ॥ 2-24-26(12303)
` शिरोभिरिव तौ मेषौ वृक्षैरिव निशाचरौ।
पदैरिव शुभावश्वौ तुण्डाभ्यां तित्तिरी इव'॥ 2-24-27(12304)
तद्भीममुत्सार्य जनं युद्धमासीदुपप्लवे।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव॥ 2-24-28(12305)
प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः।
आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः॥ 2-24-29(12306)
ततः शब्देन महता भर्त्सयन्तौ परस्परम्।
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः॥ 2-24-30(12307)
`ततो भीमं जरासन्धो जघानोरसि मुष्टिना।
भीमोषि तं जरासन्धं वक्षस्यभिजघान ह'॥ 2-24-31(12308)
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ।
बाहुभिः समसज्जोतामायसैः परिघैरिव॥ 2-24-32(12309)
कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि।
तदा तद्युद्धमभवद्दिनानि दश पञ्च च।
अनाहारं दिवारात्रमविश्रान्तमवर्तत॥ 2-24-33(12310)
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः।
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात्॥ 2-24-34(12311)
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः।
उवाच भीमकर्माणं भीमं सम्बोधयन्निव॥ 2-24-35(12312)
क्लान्तः शत्रुर्हि कौन्तेय शक्यः पीडयितुं रणे।
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः॥ 2-24-36(12313)
तस्मात्तेऽद्यैव कौन्तेय पीडनीयो जनाधिपः।
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ॥ 2-24-37(12314)
वैशम्पायन उवाच। 2-24-38x(1426)
एवमुक्तःस कृष्णेन पाण्डवः परवीरहा।
जरासन्दस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे॥ 2-24-38(12315)
ततस्तमजितं जेतुं जरासन्दं वृकोदरः।
संरम्भाद्बलिनां श्रेष्ठो जग्राह कुरुनन्दनः॥ ॥ 2-24-39(12316)
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि चतुर्विशोऽध्यायः॥ 24॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-24-6 निर्वृतीर्वेदनानि च दुःखमूर्छयोः काले सुखसञ्ज्ञाकराणि॥ 2-24-13 कक्षैः दोर्मूलैः ॥ 2-24-16 ग्रथिताङ्गुलिभ्यां हस्ताभ्यां परशिरसः पीडने पूर्णकुम्भः॥ 2-24-20 तक्षवन्तौ ग्रात्रसङ्कोचवन्तौ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|